सुभाषितम्
--------
आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानव: ।
परं परोपकारार्थं यो जीवति स जीवति ॥
तात्पर्यम्
-------
प्रपञ्चे विद्यमाना: सर्वे अपि मनुष्या: स्वहितं, स्वसुखं च सम्पादयन्ति । अत: आत्मन: निमित्तं सर्व: अपि जन: जीवति
एव । परन्तु ये जना: अन्येषां हितम्, अन्येषां सुखं च कामयमाना: तदर्थं जीवन्ति, तेषां जीवनमेव सार्थकं जीवनम् ! धन्यं जीवनम् ! परोपकाररहितं जीवनं तु निरर्थकमेव ।
–जय श्रीमन्नारायण।